कुण्डलपुराष्टकम्
कुण्डलपुराष्टकम् शिखरिणी छन्द (१) न याचेऽहं स्वर्गं विविध सुखभोगैर्विलसितम्, प्रभुत्वं राज्यं वा न मम मनसे प्रीतिजनकम्। विदेहे देशे वा भ्रमणममि मह्यं श्रमकरम्, निवासो स्यान्नित्यं सुजनशरणे कुण्डलपुरे।। (२) महावीरो जातो महति नगरे कुण्डलपुरे, यदीया माताऽऽसीत् विमलचरिता सौम्यत्रिशला। पिता सिद्धार्थोेऽभून्नरपतिवरो नीतिकुशल:, महावीरो वीरो हरतु घनजाड्यं मम मते:।। (३) स्वमित्रै: सार्धं य: शिशुवयसि क्रीडासु निरत:, सदा विद्याभ्यासे सुरगुरुरिवासीन्मति...