दैवसिक (रात्रिक) प्रतिक्रमणम्
दैवसिक / रात्रिक – प्रतिक्रमणम् (मूलपाठ) जीवे प्रमादजनिताः प्रचुराः प्रदोषा, यस्मात् प्रतिक्रमणतः प्रलयं प्रयान्ति । तस्मात्तदर्थममलं सुनिबोधनार्थं, वक्ष्ये विचित्रभवकर्मविशोधनार्थं ॥१॥ पापिष्ठेन दुरात्मना जडधिया मायाविना लोभिना । रागद्वेषमलीमसेन मनसा दुष्कर्म यन्निमितम् ॥ त्रैलोक्याधिपते जिनेन्द्र ! भवतः श्रीपादमूलेऽधुना । निन्दापूर्वमहं जहामि सततं वर्तिषुः सत्पथे ॥२॥ * खम्मामि सव्वजीवाणं सव्वे जीवा खमंतु से । मित्ती मे सव्वभूदेसु वेरं…