भवनवासी एवं व्यंतरदेवों के स्थान कहाँ हैं ?
भवनवासी एवं व्यंतरदेवों के स्थान कहाँ हैं ? (तत्त्वार्थवृत्ति से) भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिमारा:।।१०।। ‘असुरकुमाराणां पज्र्बहुलभागे भवनानि वर्तन्ते । शेषाणां नवानां खरबहुलभागे भवनानि सन्ति । अथेदानीं द्वितीयस्य निकायस्य उत्सर्गापवादसंज्ञाविज्ञापनार्थं सूत्रमिदमाहु- व्यन्तरा: किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचा:।।११।। व्यन्तरा: विविधदेशान्तराणि निवासा येषां ते व्यन्तरा: इयं सामान्यसंज्ञा अन्वर्था वर्तते सत्यार्था वर्तते। ‘कानि देशान्तराणि तेषां निवास इति चेत् ? निरूपयामि—एतस्माज्जम्बूद्वीपात् असङ्ख्येयद्वीपसमुद्रात् व्यतिक्रम्य स्थिते खरपृथ्वीभागे किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचानां सप्तप्रकाराणां…