65. सबसे अधिक अकालमृत्यु
सबसे अधिक अकालमृत्यु पांडव-कौरव व जरासंध तथा श्रीकृष्ण के संग्राम में कुरुक्षेत्र में हुई है। (उत्तरपुराण पृ. ३८२) तत्र वाच्यो मनुष्याणां मृत्योरुत्कृष्टसञ्चय:। कदलीघातजातस्येत्युक्तिमत्तद्रणाङ्गणम्।।१०९।। एवं तुमुलयुद्धेन प्रवृत्ते सङ्गरे चिरम्। सेनयोरन्तकस्यापि सन्तृप्तिःसमजायत।।११०।। विलङ्घितं बलं विष्णोर्बलेन द्विषतां तथा। यथा क्षुद्र सरिद्वारिमहासिन्धुप्लवाम्बुना।।१११।। तदालोक्य हरिः क्रुधो हरिर्वा करिणां कुलम् । सामन्तबलसन्दोहसहितो हन्तुमुद्यतः।।११२।। भास्करस्योदयाद्वान्धकारं शत्रुबलं तदा। विलीनं तन्निरीक्ष्यैत्य जरासन्धोऽन्वितः क्रुधा।।११३।। द्योतिताखिलदिक्चव्रं…