द्वीपों में व्यंतर देवों के नगर
द्वीपों में व्यंतर देवों के नगर रत्नप्रभाक्षितेः सन्ति खरभागे महागृहाः। चतुर्दशसहस्राणि भूतानामविनश्वराः१।।३९।। रत्नप्रभावनेः पंकभागे रत्नमयाः शुभाः। आवासा राक्षसानां स्युः सहस्रषोडशप्रमाः।।४०।। शेषव्यन्तरदेवानां मध्यलोकेऽचलादिषु। सर्वतः सन्ति चावासाश्चैत्यालयविराजिताः।।४१।। अञ्जनो वङ्काधातुश्च द्वीपः सुवर्णनामकः। द्वीपो मनःशिलाभिख्यो द्वीपो वङ्कासमाह्वयः।।४२।। रजतो हिङ्गुलद्वीपो हरितालाभिधानकः। अष्टद्वीपेषु चैतेषु समभागे समावनौ।।४३।। अष्टानां व्यन्तरेन्द्राणां प्रत्येक़ शाश्वतानि च। जम्बूद्वीपसमानानि पञ्चपञ्चपुराण्यपि।।४४।। पूर्वादिदिक्षु विद्यन्ते मानस्तम्भजिनालयैः। चैत्यवक्षैश्च युक्तानि स्वस्वेन्द्रनामभिः स्पुक़टम्।।४५।। अमीषां…