भवनवासी एवं व्यंतरदेवों के निवासस्थान
भवनवासी एवं व्यंतरदेवों के निवासस्थान (तत्वार्थवार्तिक से ) अस्या: रत्नप्रभाया: पज्र्बहुलभागेऽसुरकुमाराणां भवनानि चतु:षष्टिशतसहस्राणि। अस्माज्जम्बूद्वीपात् तिर्यगपागसंख्येयान् द्वीपसमुद्रान् अतीत्य पज्र्बहुलभागे चमरस्याऽसुरेन्द्रस्य चतुस्त्रिंशद्भवनशतसहस्राणि, चतुःषष्टिसामानिकसहस्राणि, त्रयस्त्रिंशत्त्रायिंस्त्रशाः, तिस्रः परिषदः, सप्तानीकानि चत्वारो लोकपालाः, पञ्चाग्रमहिष्यः, चत्वारि चतुःषष्ट्युत्तराणि आत्मरक्षसहस्राणि, एवं विभवपरिवारः दक्षिणार्धपतिः दिव्यान् भोगान् अनुभवति। तथोत्तरस्यां दिशि वैरोचनस्य त्रिंशद्भवनशतसहस्राणि षष्टिसामानिकसहस्राणि, त्रयिंस्त्रशत्त्रायिंस्त्रशाः, तिस्रः परिषदः, सप्तानीकानि, चत्वारो लोकपालाः, पञ्चाग्रमहिष्यः, चत्वारि चतुःषष्ट्युत्तराणि आत्मरक्षसहस्राणि, एवं विभवपरिवारः उत्तरार्धपतिः…