11. केवलज्ञान कल्याणक विधि
केवलज्ञान कल्याणक विधि अथांकुरार्पणदिनान्नवमे दिवसे दिवा। केवलज्ञान कल्याणं विदधीत यथाविधि।।1।। तत्रादौ व्यासतो याग-मंडलस्य समर्चनम्। तदग्रस्थापिते पीठे, प्रतिमास्थापनं ततः।।2।। आव्हानादिविधिः स्वर्ण-शलाकाविनिवेशनम्। कल्याणपंचकारोपः, संस्कारारोपणं ततः।।3।। मंत्रन्यासविधिः पश्चात्, प्रतिष्ठाहोमसंविधिः। तत्काले गंधयंत्रस्या-राधनं कुसुमैर्जपः।।4।। प्रतिष्ठातिलकन्यासस्ततः स्यादधिवासना। अथ स्वस्त्ययनं चाशी-र्दानं वृक्षनिवेशनम्।।5।। नयनोन्मीलनं गंध-लेपनं गुणरोपणम्। न्यासो दशातिशीतीनां, समवादिसृतेरपि।।6।। दिव्यातिशयसंकल्पः, प्रातिहार्यप्रकल्पनम्। लांछनस्थापनं यक्ष-यक्षीस्थापनमन्वतः।।7।। कल्याणपंचकारोपः, कंकणस्य विमोचनम्। साक्षात्कृति£जनेंद्रस्य, श्रीमुखोद्घाटनं ततः।।8।। अघ्र्यपुष्पांजलिश्चाशीः, शांतिधारास्तुतिर्मुदा। अर्थन्यासादिकं यष्ट्रा,...