12. निर्वाणकल्याणक
1 2 3 4 5 6 7 8 निर्वाणकल्याणक प्रतिष्ठादिवसात्पश्चाद्द्वितीयेऽहनि याजकः। यागमंडलमारभ्य, समासात्तत्र विष्टरे।।1।। जिनबिंबं निवेश्यास्य, विदध्यादधिवासनम्। धर्मोपदेशसंकल्पात्तत्वार्थं साधु घोषयेत्।।2।। त्रिसंध्यमेवं कुर्वीत, प्रतिष्ठोक्ताधिवासनम्। मध्यान्हेऽस्ति विशेषस्तद्यथा कृत्वाधिवासनाम्।।3।। जिनपादाचतैर्गंध-पुष्पतांबूलसत्फलैः। संतप्र्य भव्यसंदोहं, प्रागुक्तविधिनाशिषा।।4।। द्वारपालबलिं ब्रह्म-बलिं दिक्पालसद्बलिं। श्रीबलिं च ध्वजबलिं, ग्रामसंबधिनां पुनः।।5।। ब्रह्मदिक्पालकानां च, बलिं कृत्वा क्रमात्ततः। पीतैः सुगंधिभिश्चूर्णैः, पुंजितैरर्चयेज्जिनम्।।6।। तच्चूर्णं बिभृयुः सर्वे, भव्याः शिरसि भक्तितः। विहारघोषमुक्त्वा च, सर्वसंघेन...