07. सीता-सीतोदा नदियों के मध्य सरोवरों में कमलों में जिनमंदिर
सीता-सीतोदा नदियों के मध्य सरोवरों में कमलों में जिनमंदिर अथ मेरो: पूर्वापरदक्षिणोत्तरदिक्षु स्थितानां ह्रदानां प्रमाणमेवैकस्य ह्रदस्य तीरद्वयस्थितानां काञ्चनशैलानां संख्यां च तदुत्सेधेन सह गाथाचतुष्टयेनाह- गमिय तदो पंचसयं पंचसरा पंचसयमिदंतरिया। कुरुभद्दसालमज्झे अणुणदिदीहा हु पउमदहसरिसा।।६५६।। गत्वा तत पञ्चशतं पञ्च सरांसि पञ्चशतमितान्तरिता:। कुरुभद्रशालमध्ये अनुनदिदीर्घाणि हि पद्मह्रदसदृशानि।।६५६।। गमिय। यमकगिरिभ्यां पञ्चशतयोजनानि ५०० गत्वा कुरुक्षेत्रयो: पूर्वापर -भद्रसालयोश्च मध्ये पंचशतयोजनान्तराणि पञ्च पञ्च सरांसि।…