07. महायागमंडलाराधना
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 अथ सप्तमः परिच्छेदः महायागमंडलाराधनाअथांकुरार्पणदिनात् षष्ठे तु दिवसे दिवा। विदधीत महायागमंडलाराधनां सुधीः।। गद्य-तद्यथा-अथ सकलविमलकेवलाख्यपरंज्योतिःस्वरूपभगवदर्हत्परमेश्वरगर्भावतरणकल्याणचिकीर्षया स्नानानुस्नान- विशुद्धाश्चैत्यालयमुपेत्य पूजामुखविधिं विधाय, जिनेश्वरस्याष्टविधार्चनं, सिद्धाराधनां, महर्षिपर्युपासनं, स्वस्त्ययनविधिं, यज्ञदीक्षाविधानं, भूमिशुद्धिं, मंडपप्रतिष्ठां, यागमंडलवर्तनविधानं च कुर्वाणा एते वयं गर्भावतरणकल्याणांगभूतां यागमंडलाराधनां...