6.01 अथ पिण्डशुद्धि-अधिकार:
अथ पिण्डशुद्धि-अधिकार: पिंडशुद्ध्याख्यं षष्ठमाचारं विधातुकामस्तावन्नमस्कारमाह- तिरदणपुरुगुणसहिदे अरहंते विदिदसयलसब्भावे।पणमिय सिरिसा वोच्छं समासदो पिण्डसुद्धी दु।।४२०।। त्रिरत्नानि सम्यग्दर्शनज्ञानचारित्राणि तानि च तानि पुरुगुणाश्च ते महागुणाश्च ते त्रिरत्नपुरुगुणा:। अथवा त्रिरत्नानि सम्यक्त्वादीनि पुरुगुणा अनन्तसुखादयस्तै: सहितास्तान्। अरहंते अर्हत: सर्वज्ञान् विदितसकलसद्भावान् विदितो विज्ञात: सकल: समस्त: सद्भाव: स्वरूप यैस्तान् परिज्ञातसर्वपदार्थस्वरूपान् प्रणम्य शिरसा, वक्ष्ये समासत: पिण्डशुद्धिमाहारशुद्धिमिति।।४२०।। यथाप्रतिज्ञं निर्वहन्नाह- उग्गम उप्पादण एसणं च संजोजणं पमाणं च।इंगाल...