गणिनीप्रमुख आर्यिकारत्न श्री ज्ञानमती स्तुति:
गणिनीप्रमुख आर्यिकारत्न श्री ज्ञानमती स्तुति: डॉ. पं. दामोदर जी शास्त्री, दिल्ली शार्दूलविक्रीडित छंद- शार्दूलविक्रीडित यस्या आप्तजिनोक्तधर्मविषया श्रद्धा दृढाकीर्त्यते, यज्ज्ञानं बहुशास्त्रवारिधि—तलस्र्पिश प्रसिद्धं भुवि। चारित्रं च यदीयमस्ति विमलं तीर्थंकराज्ञानुगम् , भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।१।। शास्त्राधीतिपरप्रबोधककथाव्याख्यानरूपादिभि:, स्वाध्यायप्रमुखैस्तपोभिरखिलै: सच्चर्यया पूतया। नित्यं स्वात्महिते रताऽपि कुरुते भव्योपकारं च या, भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।२।। श्रद्धानंकरणानुयोगविषये लोकस्य कर्तुं...