74. पांच स्थावर के चार-चार भेदों में दो-दो निर्जीव हैं
पांच स्थावर के चार-चार भेदों में दो-दो निर्जीव हैं। पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः।।१३।। पृथिवी च आपश्च तेजश्च वायुश्च वनस्पतिश्च पृथिव्यप्तेजोवायुवनस्पतयः। तिष्ठन्ति इत्येवंशीलाः स्थावराः। एते पृथिव्यादय एकेन्द्रियजीवविशेषाःस्थावरनामकर्मो-दयात् स्थावराःकथ्यन्ते। ते तु प्रत्येक चतुर्विधाः-पृथिवी,पृथिवीकायः, पृथिवीकायिकः पृथिवीजीवः।आपः,अप्कायः,अप्कायिकः, अप्जीवः। तेजः, तेज:कायः, तेजकायिकाः तेजोजीवः। वायुः, वायुकायः, वायुकायिकाः, वायुजीवः। वनस्पतिः, वनस्पतिकायः, वनस्पतिकायिकः,वनस्पतिजीव इति। तत्र अध्वादिस्थिता धूलिः पृथिवी। इष्टकादिः पृथ्विीकायः। पृथ्वीकायिक-जीवपरिहृतत्वात् इष्टकादिः पृथ्वीकायःकथ्यते मृतमनुष्यादिकायवत् ।…