लघु चारित्रभक्ति
लघु चारित्रभक्ति व्रतसमुदयमूलः संयमस्कन्धबन्धो यमनियमपयोभिर्वर्धितः शीलशाखः। समितिकलिकभारो गुप्तिगुप्तप्रवालो गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः।।१।। शिवसुखफलदायी यो दयाछाययौद्घः शुभजनपथिकानां खेदनोदे समर्थः। दुरितरविजतापं प्रापयन्नन्तभावं स भवविभवहान्यै नोऽस्तु चारित्रवृक्षः।।२।। चारित्रं सर्वजिनैश्चरितं प्रोक्तं च सर्वशिष्येभ्यः। प्रणमामि पंचभेदं पंचमचारित्रलाभाय।।३।। धर्मः सर्वसुखाकरो हितकरो धर्मं बुधाश्चिन्वते। धर्मेणैव समाप्यते शिवसुखं धर्माय तस्मै नमः।। धर्मान्नास्त्यपरःसुहृद्भवभृतां धर्मस्य मूलं दया। धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म! मां पालय।।४।। धम्मो मंगलमुक्किट्ठं...